श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् – जगतगुरु आदि शंकराचार्य
भजेऽहं कुमारं भवानी कुमारं गलोल्लासिहारं नमस्कृद्विहारम् ।
रिपुस्तोमसारं नृसिंहावतारं सदानिर्विकारं गुहं निर्विचारम् ॥ १॥
नमामीशपुत्रं जपाशोण गात्रं सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्रं शिवास्याब्जमित्रं प्रभासत्कळत्रं पुराणं पवित्रम् ॥ २॥
अनेकार्ककोटि प्रभावज्वलन्तं मनोहारि माणिक्य भूषोज्वलन्तम् ।
श्रितानामभीष्टं सुशान्तं नितान्तं भजे षण्मुखंतं शरच्चन्द्रकान्तम् ॥ ३॥
कृपावारि कल्लोलभास्वत्कटाक्षं विराजन् मनोहारि शोणांबुजाक्षम् ।
प्रयोगप्रदानप्रवाहैकदक्षं भजे कान्तिकान्ताम्बरस्तोमरक्षम् ॥ ४॥
सुकस्तूरिकाबिन्दुभास्वल्ललाटं दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं भजे क्रीडिताकाश गङ्गासुकूटम् ॥ ५॥
सुकुन्दप्रसूनावलीशोभितान्तं शरत्पूर्णचन्द्रस्य षट्कान्तिकान्तम् ।
शिरीषप्रसूनाभिरामं भवन्तं भजे देवसेनापतिं वल्लभं तम् ॥ ६॥
सुलावण्यसत्सूर्यकोटिप्रकाशं प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजार्कप्रभादीप्यमानाखिलाशं भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ ७॥
अजं सर्वलोकप्रियं लोकनाथं गुहं शूरपत्मादिदंभोलिधारम् ।
सुबाहुं सुनासापुटं सच्चरित्रं भजे कार्तिकेयं सदा बाहुलेयम् ॥ ८॥
शरारण्यसंभूतमिन्द्रादिवन्द्यं द्विषड्बाहुसंख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं भजे योगिहृत्पद्ममध्याधिवासम् ॥ ९॥
विरिञ्चीन्द्रवल्लीशदेवेशमुख्यं प्रशस्तामरस्तोमसंस्तूयमानम् ।
दिश त्वं दयालो श्रियं निश्चलां मे विना त्वां गतिः का प्रभो मे प्रसीद ॥ १०॥
पदांभोजसेवा समायातबृन्दा रकश्रेणिकोटीरभास्वल्ललाटम् ।
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं भजे देवमाद्यं त्वहीनप्रभावम् ॥ ११॥
भवांभोधिमध्ये तरङ्गे पतन्तं प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।
भवत्भक्तिनावोद्धर त्वं दयालो सुगत्यन्तरं नास्ति देव प्रसीद ॥ १२॥
गले रत्नभूषं तनौ मञ्जुवेषं करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणिं शिकिस्थं कुमारं भजेऽहं गुहादन्यदेवं न मन्ये ॥ १३॥
दयाहीनचित्तं परद्रोहपात्रं सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलम्बं भवन्नेत्रपात्रं कृपाशील मां भो पवित्रं कुरु त्वम् ॥ १४॥
महासेन गाङ्गेय वल्लीसहाय प्रभो तारकारे षडास्यामरेश ।
सदा पायसान्नप्रदातर्गुहेति स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ १५॥
प्रतापस्य बाहो नमद्वीरबाहो प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठन्ते भवन्तं तदैव प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ १६॥
अपारेऽतिदारिद्र्यपाथोधिमध्ये भ्रमन्तं जनिग्राहपूर्णे नितान्तम् ।
महासेन मामुद्धर त्वं कटाक्षावलोकेन किञ्चित्प्रसीद प्रसीद ॥ १७॥
स्थिरां देहि भक्तिं भवत्पादपद्मे श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चन्द्रतारं स्ववंशाभिवृद्धिं कुरु त्वं प्रभो मे मनः कल्पसाल ॥ १८॥
नमस्ते नमस्ते महाशक्तिपाणे नम्स्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे नमस्ते नमस्ते सदाभीष्टपाणे ॥ १९॥
नमस्ते नमस्ते महाशक्तिधारिन् नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशाख्यक त्वं समस्तापराधं विभो मे क्षमस्व ॥ २०॥
य एको मुनीनां हृदब्जाधिवासः शिवाङ्गं समारुह्य सत्पीठकल्पम् ।
विरिञ्चाय मन्त्रोपदेशं चकार प्रमोदेन सोऽयं तनोतु श्रियं मे ॥ २१॥
यमाहुः परं वेद शूरेषु मुख्यं सदा यस्य शक्त्या जगत्भीतभीतम् ।
यमालोक्य देवाः स्थिरं स्वर्गपालाः सदोङ्काररूपं चिदानन्दमीडे ॥ २२॥
गुहस्तोत्रमेतत् कृतान्तारिसूनोः भुजङ्गप्रयातेन पद्येन कान्तम् ।
जना ये पठन्ते सदा ते महान्तो मनोवाञ्छितान् सर्वकामान् लभन्ते ॥ २३॥
॥ इति श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥